वांछित मन्त्र चुनें

कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्पृ॑थु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ । कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ॥

अंग्रेज़ी लिप्यंतरण

kaṁ naś citram iṣaṇyasi cikitvān pṛthugmānaṁ vāśraṁ vāvṛdhadhyai | kat tasya dātu śavaso vyuṣṭau takṣad vajraṁ vṛtraturam apinvat ||

पद पाठ

कम् । नः॒ । चि॒त्रम् । इ॒ष॒ण्य॒सि॒ । चि॒कि॒त्वान् । पृ॒थु॒ऽग्मान॑म् । वा॒श्रम् । व॒वृ॒धध्यै॑ । कत् । तस्य॑ । दातु॑ । शव॑सः । विऽउ॑ष्टौ । तक्ष॑त् । वज्र॑म् । वृ॒त्र॒ऽतुर॑म् । अपि॑न्वत् ॥ १०.९९.१

ऋग्वेद » मण्डल:10» सूक्त:99» मन्त्र:1 | अष्टक:8» अध्याय:5» वर्ग:14» मन्त्र:1 | मण्डल:10» अनुवाक:8» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

इस सूक्त में परमात्मा कर्मफल देनेवाला, ज्ञानप्रकाशदाता, स्तुतिकर्ता को मोक्ष में लेनेवाला, दुष्ट को दण्ड देता है। उसकी उपासना से उपासक अपनी इन्द्रियों को वश करता है, इत्यादि विषय वर्णित हैं।

पदार्थान्वयभाषाः - (नः) हमारे लिए (चित्रं कम्) श्रवण करने योग्य-कमनीय सुखद (पृथुग्मानं वाश्रम्) विस्तृत परिणामवाले वक्तव्य या प्रशंसनीय वेदज्ञान को हमारी वृद्धि-उन्नति के लिए (चिकित्वान्) बोध देता हुआ जनाता हुआ (इषण्यसि) परमात्मन् ! तू प्रेरित करता है (तस्य शवसः) उस तुझ बलवान् का कैसा अद्भुत दान है (व्युष्टौ) विविध-कामना निमित्त (तक्षत्) सम्पन्न करता है, या प्रकट करता है (वृत्रतुरं वज्रम्) आवरक अज्ञान के नाशक वज्रसमान या ओजरूप ज्ञानामृत को (अपिन्वत्) सींचता है ॥१॥
भावार्थभाषाः - परमात्मा अद्भुत श्रवण करने योग्य सुखद वेदज्ञान का उपदेश करता है, हमें बोध देकर उन्नतिपथ पर ले जाता है, यह ज्ञानदान अज्ञान का नाश करता है, अमृतरूपी इस ज्ञान को हमारे अन्दर सींचता है ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

अस्मिन् सूक्ते परमात्मा कर्मफलविधाता ज्ञानप्रकाशस्य दाता स्तोतारं मोक्षे स्वीकर्ता, दुष्टाय दण्डं प्रयच्छति, तदुपासनेनोपासकः स्वेन्द्रियाणि वशीकरोतीत्येवमादयो विषयाः वर्ण्यन्ते।

पदार्थान्वयभाषाः - (नः) अस्मभ्यं (चित्रं कम्) चायनीयं निशाम्यं श्रोतव्यम् “चायृ पूजानिशामनयोः” [भ्वादि०] तथा कमनीयं सुखकरं (पृथुग्मानं वाश्रम्) विस्तृतपरिणामवन्तं वक्तव्यं प्रशंसनीयं वा वेदज्ञानम् (ववृध्यै) अस्माकं वर्धनाय-उन्नतये (चिकित्वान्) बोधयन् सन् (इषण्यसि) त्वं परमात्मन् !  प्रेरयसि (तस्य शवसः) तस्य बलवतः परमात्मनः (कत्-दातु) कथम्भूतमद्भुतं दानमस्ति (व्युष्टौ) विविधकामनानिमित्तं (तक्षत्) तक्षति-करोति “तक्षति करोतिकर्मा” [निरु० ४।१९] प्रकटीकरोति स परमात्मा (वृत्रतुरं वज्रम्) आवरकस्याज्ञानस्य नाशकमोजः “वज्रो वा ओजः” ज्ञानामृतम् (अपिन्वत्) अस्मासु सिञ्चति ॥१॥